Monday 6 June 2011

sanskrit varnan


सर्वदेवशरीरेभ्यो या ऽ विर्भूतामितप्रभा |

त्रिगुणा सा महालक्ष्मीः  साक्षान्महिषमर्दिनि 
श्वेतानना  नीलभुजा सुश्वेतस्तनमण्डला |
रक्तमध्या रक्तपादा  नीलजङ्घोरुरुन्मदा|
सुचित्रजघना चित्रमाल्याम्बरविभूषणा |
चित्रानुलेपना  कान्तिरूपसौभ्याग्यशालिनी|
अष्टादशभुजा पूज्या सा सहस्त्रभुजा सती|
आयुधान्यत्र  वक्षन्ते दक्षिणाधः करक्रमात्|
अक्षमाला च कमलं बाणो ऽसीः  कुलिशं गदा |
चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः |
शक्तिर्दण्डश्र्चर्म  चापं पानपात्रं  कमण्डलुः |
अलन्कृतंभुजामेभिरायुधैः  कमलासनांम्|
सर्व देवमयीमीशां महालक्ष्मीमिमां  नृप |
पुजयेत्सर्व लोकानां  स देवानां प्रभुर्भवेत्|

No comments:

Post a Comment